REET Level 1 2017 संस्कृतम् : भाषा - II

 

रीट लेवल प्रथम 2017 संस्कृत भाषा - II

अत्र त्रिंशत् प्रश्नानि सन्ति। सर्वे प्रश्नाः समाधेयाः। 


निम्नलिखितं श्लोकम् आधारीकृत्य अधोलिखिताः प्रश्नाः (1-5) समाधेया:

पुरस्कृता वर्त्मनि पार्थिवेन

प्रत्युद्गता पार्थिवधर्मपत्न्या।

तदन्तरे सा विरराज धेनुः

दिनक्षपामध्यगतेव सन्ध्या।।


1. पद्येऽस्मिन् कस्यच्छन्दसः प्रयोगः अस्ति?

(1) इन्द्रवज्राच्छन्दसः

(2) उपेन्द्रवज्राच्छन्दस:

(3) वंशस्थच्छन्दसः

(4) उपजातिच्छन्दस:

उत्तर— 4


2. "वर्त्मनि" इत्यस्य मूलशब्दः अस्ति

(1) वर्त्म  (2) वर्त्मन्

(3) वर्त्मा (4) वत्म

उत्तर— 2


3. "पुरस्कृताः" इत्यत्र कः प्रत्ययः प्रयुक्त?

(1) क्तवतु  (2) क्त्वा

(3) क्त     (4) शतृ

उत्तर— 3


4. "पार्थिवेन" इत्यत्र का विभक्तिः?

(1) तृतीया (2) सप्तमी

(3) द्वितीया (4) पञ्चमी

उत्तर— 1


5. "विरराज" इत्यत्र कः लकारः प्रयुक्तः अस्ति?

(1) लुट् (2) लिट् 

(3) लुङ् (4) लङ्

उत्तर— 2


6. "मुझे रसगुल्ले अच्छे लगते हैं" इति वाक्यस्य संस्कृतानुवाद: भवति?

(1) मां रसगोलकानि रोचन्ते (2) मम रसगोलकानि रोचन्ते

(3) मह्यं रसगोलकानि रोचन्ते (4) मया रसागोलकानि रोचन्ते

उत्तर— 3


7. "प" वर्णस्य उच्चारणस्थानम् अस्ति

(1) कण्ठः (2) दन्तः

(3) ओष्ठौ (4) तालु:

उत्तर— 3


8. "वयं महाविद्यालयं गच्छामः" वाक्यस्यास्य वाच्यपरिवर्तन कुरूत?

(1) अस्माभिः महाविद्यालय: गम्यते

(2) अस्याभि: महाविद्यालयं गम्यते

(3) वयं महाविद्यालय गच्छाम

(4) अस्माभिः महाविद्यालय: गम्यन्ते

उत्तर— 1


9. "सः ग्रामस्य निकषा तिष्ठति" इति वाक्यं संशोधयत?

(1) स: ग्रामेण निकषा निष्ठति

(2) स: ग्राम निकषा निष्ठति

(3) स: ग्रामात् निकषा तिष्ठति

(4) स: ग्रामाय निकषा तिष्ठति

उत्तर— 2


10. निम्नलिखितसूक्तेः समुचितपदेन रिक्तस्थानं पूरयंत 

न हि ज्ञानेन........ पवित्रमिह विद्यते।

(1) सार्धम्  (2) सह

(3) सदृशम् (4) साकम्

उत्तर— 3


11. "व्यवहारकौशलम्" इत्यस्य गुणस्य ग्रहणं कस्माद् विधेः

(1) पाठ्यपुस्तकविधित (2) व्याकरणानुवादविधितः

(3) पाठशालाविधित: (4) प्रत्यक्षविधित:

उत्तर— 4


12. प्रो. वी.पी. बोकिल महोदयेन कः विधिः प्रतिपादितः?

(1) प्रत्यक्षविधि:  (2) व्याकरणविधिः

(3) पाठ्यपुस्तकविधि: (4) व्याख्याविधिः

उत्तर— 1


13. "हरबार्टीयपञ्चपदी" इत्यस्य विधेः विकसितं रूपं किम्?

(1) विश्लेषणात्मकविधिः

(2) मूल्याङ्कनविधिः

(3) व्याकरणविधिः

(4) व्याख्याविधिः

उत्तर— 2


14. भावाभिव्यक्तेः सर्वोत्तमं साधनं विद्यते

(1) व्याकरणम् (2) सूत्रम्

(3) भाषा  (4) श्लोक:

उत्तर— 3


15. संस्कृतभाषायाः शिक्षणाय कौशालानां स्वाभाविक क्रमः विद्यते?

(1) श्रवणम्, भाषणम्, पठनम्, लेखनम्

(2) भाषणम्, श्रवणम्, पठनम्, लेखनम्

(3) पठनम्, लेखनम्, श्रवणम्, भाषणम्

(4) लेखनम्, भाषणम्, श्रवणम्, पठनम्

उत्तर— 1


16. संस्कृतशिक्षणस्य प्रयास: स्यात् -

(1) ऊर्ध्वमुखः  (2) अधोमुखः

(3) अन्तर्मुखः  (4) बहिर्मुख:

उत्तर— 4


17. अभिनयः कतिविधो भवति?

(1) द्विविधः (2) चतुर्विधः

(3) त्रिविध: (4) पञ्चविधः

उत्तर— 2


18. दृश्यश्रव्यसाधनेषु प्रमुखं साधनम् अस्ति

(1) आकाशवाणी  (2) पुस्तकम्

(3) दूरदर्शनम्    (4) श्यामफलकम्

उत्तर— 3


19. दृश्यसाधनानां सर्वोत्तमं साधनं वर्तते?

(1) श्यामफलकम्  (2) पुस्तकम्

(3) चलचित्रम्     (4) नाटकम्

उत्तर— 1


20. पाठ्यपुस्तकस्य उद्देश्यानि सन्ति?

(1) बालकानां ज्ञानस्य सीमाया: विस्तार:

(2) व्यावहारिकज्ञानस्य सम्पादनाय प्रेरणा

(3) छात्राणां कल्पनाशक्तेः विकासः

(4) उपर्युक्तानि त्रीणि अपि

उत्तर— 4


21. संस्कृतशिक्षणमूल्याङ्कनस्य साधनाभूताः भवन्ति -

(1) बुद्धिपरीक्षा: (2) अभिरुचिपरीक्षा:

(3) आसक्तिपरीक्षा: (4) उपर्युक्ताः सर्वाः

उत्तर— 4


22. लघुकाष्ठखण्डस्य व्यवहारः कुत्र क्रियते?

(1) वस्तुनिष्ठपरीक्षायाम्  (2) शलाकापरीक्षायाम्

(3) निबन्धपरीक्षायाम्  (4) अन्त्याक्षरीपरीक्षायाम्

उत्तर— 2


23. उपचारात्मकं शिक्षणं कर्तुं शक्यते।

(1) मूल्याङ्कनेन (2) पाठ्यपुस्तकेन

(3) गुरूमुखेन   (4) न केनापि

उत्तर— 1

 

24. वस्तुनिष्ठपरीक्षायाः प्रकाराः भवन्ति।

(1) बहुसमाधानप्रश्ना:

(2) रिक्तस्थानपूरणम्

(3) सत्यासत्यनिर्णय:

(4) उपर्युक्ताः सर्वाः

उत्तर—4


25. छात्रस्य ज्ञानात्मक क्षेत्रस्य परीक्षणं कर्तुं शक्यते।

(1) अध्ययनेन  (2) परीक्षया

(3) पाठ्यपुस्तकेन (4) भाषणेन

उत्तर— 2

  

अधोलिखितम् अपठितं गद्यांशम् आधारीकृत्य निम्नाङ्किताः प्रश्नाः (26-30) समाधेयाः

परमेश्वरेण जगति समुत्पादितेषु सर्वद्रव्येषु विद्यैव सर्वश्रेष्ठं धनम्। विद्ययानेन विहीनः यो मानवोऽस्ति सः असभ्यः मूर्ख: ग्राम्यश्च कथ्यते। ज्ञानेन विना यथा पशुः धर्माधर्मयोर्विचारं कर्तुं न शक्नोति तथैव मानवोऽपि विद्यया विहीनः पापपुण्ययो: कर्त्तव्याकर्त्तव्योर्विचारं कर्तुं न पारयति विद्याविहीनो मानवोऽन्ध व निगद्यते। आचार्य दण्डिनः कथानुसारं विद्यैव शब्दाहृयं ज्योतिः। यदि नामेयं विद्याऽजेतिरस्मिन् जगति न भवेत् तर्हि जगदिदमखिलमपि अन्धकारावृत्तं सम्पत्स्येत। अतएव उक्तं "विद्याधनं सर्वधनप्रधानम्" इति।


26. "ज्ञानेन" इत्यस्मिन् पदे का विभक्तिः?

(1) चतुर्थी  (2) तृतीया

(3) द्वितीया (4) पञ्चमी

उत्तर— 2


27."निगद्यते" इत्यत्र कः धातुः?

(1) गद्  (2) निगद्

(3) गद्य (4) निगद्य

उत्तर— 1


28. "कर्तुम्" इत्यत्र कः प्रत्ययः वर्तते?

(1) क्त्वा (2) शतृ

(3) तुमुन्  (4) ल्यप्

उत्तर— 3


29. "अन्धकारवृतम्" इत्यत्र समासविग्रहः अस्ति

(1) अन्धकारात् आवृतम्

(2) अन्धकारेण आवृतम्

(3) अन्धकारस्य आवृतम् 

(4) अन्धकाराय आवृतम्

उत्तर— 2


30. "विद्यैव" इत्यस्य पदस्य सन्धिविच्छेदः भवति

(1) विद्या + इव  (2) विद्य + एव

(3) विद्या + एव  (4) विद्य् + एव

उत्तर— 3

Post a Comment

0 Comments